प्रतिगृहं प्रतिदिनं जनाः प्रार्थनां कुर्वन्ति। परन्तु प्रार्थना किमर्थं कर्तव्या, एतस्मिन् विषये वयं सम्यक् न जानीमः। बाल्यादेव प्रतिगृहं प्रार्थनां पाठयते। जनाः प्रतिदिनं प्रार्थनां कुर्वन्ति परन्तु प्रार्थनायाः उद्देषः कतिपयः जनाः जानन्ति? पाठषालायाम् अपि प्रतिदिनं प्रार्थनायाः गायनं भवति। यदि वयं प्रार्थनायाः महत्त्वं जानीमः तर्हि तस्याः फलमपि प्राप्स्यामः।
तर्हि प्रार्थना किमर्थं कर्तव्या। प्रार्थनया वयं मनःषान्ति तथा च मनःषक्ति विन्दामः। प्रार्थनया अषक्यम्ं अपि षक्यं भवति। प्रार्थनायाः षक्तिः असाधारणा भवति। यदा वयं नयने उन्म्मील्य भगवन्तं प्रार्थयामहे तदा दीव्या मनःषान्तिम् अनुभवामः। प्रार्थनया षरीरम् अपि स्वस्थं भवति।
प्रार्थनायाः प्रकाराः सन्ति। यथा क्षमायाचना, स्तुतिः, स्मरणम्, जागृती इत्यादयः।
छात्राः प्रतिदिनं पाठषालां गच्छन्ति। अध्ययनात् प्राक् सर्वे छात्राः सरस्वतीदेव्याः वन्दनं कुर्वन्ति। सरस्वती देवी विद्यायाः देवता अस्ति। छात्राः पाठषालां विद्यार्जनाय एव गच्छन्ति। विद्यार्जनाय या एकाग्रता आवष्यका, सा ते प्रार्थनया लभन्ते।
प्रार्थना एका धार्मिकी क्रिया मन्यते। प्रार्थनायाः माध्यमेन वयं एकां अदृष्यया तथैव अज्ञाताषक्त्या सह सबंधं स्थापितं कुर्मः। प्रार्थना व्यक्तिगता तथा च सामूहिका अपि अस्ति। पाठषालायां या सामूहिकप्रार्थना भवति तया वातावरणे षुध्दता तथा च धार्मिकता प्रसरति। प्रार्थनया वयं विनम्रतां लभामहे। यदा वयं प्रार्थनां कुर्वन् नतमस्तकं भवामः तदा विनम्रता अपि स्वाभाविकतया आगच्छति। वयं भगवन्तेन सह संवादं कर्तुं षक्नुमः। प्रार्थना तु सर्वासां समस्यानां समाधानम् अस्ति।
प्रार्थना सर्वदा षुध्दमनसा करणीया। विश्वासेन करणीया। एकाग्रतया करणीया। षब्दानाम् उच्चारणम् अपि महत्त्वपूर्णम्। तत् तु प्रमादरहितं स्यात्। पवित्रतानिर्माणं कर्तुं धूपं, दीपं, कर्पूरं उपयुज्यन्ते। पुश्पाणां मधुरगन्धं पवित्रतां निर्माति। वातावरणं षुध्दं भवति। तेन अस्माकं मनसि सुविचाराणां प्रवाहः निर्मीयते।
सर्वेशु धर्मेशु प्राथनायाः अस्तित्वम् अस्ति। प्रार्थनायाः पध्दतिः भिन्ना भिन्ना अस्ति। उच्यते यत् ‘प्रभाते प्रार्थनायाः कंुजिकया एव दिनस्य द्वारं उद्घाटनीयं तथा च रात्रौ प्रार्थनया एव तत् परिवेश्टितव्यम्। तथैव सायंकाले देवं पुरतः दीपं प्रज्वाल्य वयं प्रतिदिनं प्रार्थनां कुर्मः। तया प्रार्थनया प्रसन्नतां लभते। वयं ऊर्जाम् अपि प्राप्नुमः। निराषा दूरीभूत्वा नूतनां आषां प्राप्नुमः। चित्तस्य षुध्दीकरणं भवति।
प्रार्थनां कर्तुं स्थानस्य तथाच समयस्य बन्धनं नास्ति। प्रार्थना सर्वदा करणीया। तर्हि प्रार्थनायाः एतत् महत्त्वं ज्ञात्वा सर्वैः सर्वदा प्रार्थना करणीया।
सौ. मेघा पाध्ये
मुख्याध्यापिका (प्राथमिक)